संस्कृति >> ऋतुसंहार ऋतुसंहारमूलचन्द्र पाठक
|
3 पाठकों को प्रिय 369 पाठक हैं |
प्रस्तुत है पुस्तक ऋतुसंहार ...
स्फुटकुमुदचितानां राजहंसाश्रितानां
मरकतमणिभासा वारिणी भूषितानाम्।
श्रियमतिशयरूपां व्योम तोयाशयानां
वहति विगतमेधं चन्द्रतारावकीर्णम् ॥२१॥
शरदि कुमुदसङ्गाद् वायवो वान्ति शीता।
विगतजलदवृन्दा दिग्विभागा मनोज्ञाः।
विगतकलुषमम्भः श्यानपङ्का धरित्री
विमलकिरणचन्द्रं व्योम ताराविचित्रम्।।२२।।
करकमलमनोज्ञाः कान्तसंसक्तहस्ता
वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः।
रचितकुसुमगन्धि प्रायशो यान्ति वेश्म।
प्रबलमदनहेतोस्त्यक्तसंगीतरागाः ॥२३॥
सुरत-रसविलासाः सत्सखीभिः समेता
असमशरविनोदं सूचयन्ति प्रकाशम्।
अनुपममुखरोगा रात्रिमध्ये विनोदं।
शरदि तरुणकान्ताः सूचयन्ति प्रमोदान्।।२४।।
दिवसकरमयूखैर्वाध्यमानं प्रभाते
वरयुवतिमुखानं पङ्कजं जृम्भतेऽद्य।
कुमुदमपि गतेऽस्तं लोयते चन्द्र बिम्बे।
हसितमिव वधूनां प्रोषितेषु प्रियेषु।।२५।।
असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु।
क्वणितकनककाञ्चीं मत्तहंसस्वनेषु।
अधररुचिर शोभां वन्धुजीवे प्रियाणां।
पथिकजन इदानीं रोदिति भ्रान्तचित्तः।।२६।।
स्त्रीणां विहाय वदनेषु शशाङ्कलक्ष्मी
काम्यं च हंसवचनं मणिनूपुरेषु।
बन्धूककान्तिमधरेषु मनोहरेषु।
क्वापि प्रयाति सुभगा शरदागमश्रीः।।२७।।
विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी
विकसितनवकाशश्वेतवासो वसाना।
कुमुदरुचिरकान्ति: कामिनीवोन्मदेयं।
प्रतिदिशतु शरद् वश्चेतसः प्रीतिमग्रयाम्।।२८।।
।। इति श्रीकालिदासकविकृतौ ऋतुसंहारे शरवर्णनो नाम तृतीयः सर्गः ॥
|