संस्कृति >> ऋतुसंहार ऋतुसंहारमूलचन्द्र पाठक
|
3 पाठकों को प्रिय 369 पाठक हैं |
प्रस्तुत है पुस्तक ऋतुसंहार ...
अपगतमदरागा योषिदेका प्रभाते
कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन।
प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं।
व्रजति शयनवासाद् वासमन्यं हसन्ती।।११।।
अगुरुसुरभिधूपामोदितं केशपाशं
गलितकुसुममाले कुञ्चिताग्रं वहन्ती।
त्यजति गुरुनितम्बा निम्ननाभिः सुमध्या।
उषसि शयनमन्या कामिनी चारुशोभा।।१२।।
कनककमलकान्तैश्चारुताम्राधरोष्ठैः
श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः।
उषसि वदनबिम्बैरंससंसक्तकेशैः
श्रिय इव गृहमध्ये संस्थिता योषितोऽद्य।।१३।।
पृथुजघनभरार्ता किञ्चिदानम्रमध्याः
स्तनभरपरिखेदान्मन्दमन्दं वदन्त्यः।
सुरतसमयवेशं नैशमाशु प्रहाय।
दधति दिवसयोग्यं वेशमन्यास्तरुण्यः।।१४।।
नखपदचितभागान् वीक्षमाणाः स्तनान्ता
नधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः।
अभिमतरतवेशं नन्दयन्त्यस्तरुण्यः
सवितुरुदयकाले भूषयन्त्याननानि।।१५।।
प्रचुरगुडविकारः स्वादुशालीधुरम्यः
प्रवलसुरतकेलिर्जातकन्दर्पदर्पः।
प्रियजनरहितानां चित्तसन्तापहेतुः।
शिशिरसमय एष श्रेयसे वोऽस्तु नित्यम्।।१६।।
।।इति श्रीकालिदासकविविरचिते ऋतुसंहारकाव्ये शिशिरवर्णनो नाम पञ्चमः सर्गः ॥
|