लोगों की राय

भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित

कुमारसम्भव महाकाव्य-कालिदास विरचित

नेमिचन्द्र शास्त्री

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 1988
पृष्ठ :56
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11566
आईएसबीएन :8120826612

Like this Hindi book 0


सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयङ्गमस्वनैः।
भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः॥४१॥

सोऽयमानतशिरोधरर्हयैः कर्णचामरविघट्टितेक्षणः।
अस्तमेति युगभुग्नकेसरैः सन्निधाय दिवसं महोदधौ॥४२॥

खं प्रसुप्तमिव संस्थिते रवी तेजसो महत ईदृशी गतिः।
तत् प्रकाशयति यावदुद्गतं मीलनाय खलु तावतश्च्युतम्॥४३॥

संध्ययाप्यनुगतं रवेर्वपुर्वन्द्यमस्तशिखरे समर्पतम्।
येन पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि॥४॥

रक्तपीतंकपिशाः पयोमुचां कोटयः कुटिलकेशि भान्त्यमूः।
द्रक्ष्यसि त्वमिति संध्ययानया वतिकाभिरिव साधुमण्डिताः॥४५॥

सिंहकेसरसटासु भूभृतां पल्लवप्रसविषुद्रुमेषु च।
पश्य धातुशिखरेषु भानुना संविभक्तमिव सांध्यमातपम्॥४६॥

अद्रिराजतनये तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः।
ब्रह्म गूढमभिसंध्यमादृताः शुद्धये विधिविदो गृणन्त्यमी॥४७॥

तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि।
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि विनोदयिष्यति॥४८॥

निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा।
शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥४९॥

ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्वमनुतस्थिवान् विधिम्।
पार्वतीमवचनामसूयया प्रत्युपेत्य पुनराह सस्मितम्॥५०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book