भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
मुञ्च कोपमनिमित्तकोपने संध्यया प्रणमितोऽस्मि नान्यया।
कि न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः॥५१॥
निमितेषु पितृषु स्वयंभुवा या तनुः सुतनु पूर्व मुज्झिता।
सेयमस्तमुदयं च सेवते तेन मानिनि ममात्र गौरवम् ॥५२॥
तामिमां तिमिरवृद्धिपीडितां शैलराजतनयेऽधुना स्थिताम्।
एकतस्तटतमालमालिनीं पश्य धातुरसनिम्नगामिव॥५३॥
सान्ध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक्।
सांपरायवसुधा सशोणितं मण्डलाग्रमिव तिर्यगुज्झितम्॥५४॥
यामिनीदिवससन्धिसम्भवे तेजसि व्यवहिते सुमेरुणा।
एतदन्धतमसं निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते॥५५॥
नोर्ध्वमीक्षणगतिनं चाप्यधो नाभितो न पुरतो न पृष्ठतः।
लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि॥५६॥
शुद्धमाविलमवस्थितं चलं वक्रमार्जवगुणान्वितं च यत्।
सर्वमेव तमसा समीकृतं धिङ् महत्त्वमसतां हृतान्तरम्॥५७॥
नूनमुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये।
पुण्डरीकमुखि पूर्वदिङ्मुखं केतकैरिव रजोभिराहतम्॥५८॥
मन्दरान्तरितमूर्ति ना निशा लक्ष्यते शशभृता सतारका।
त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्ठतः॥५९॥
रुद्धनिर्गमनमादिनक्षयात् पूर्वदष्टतनु चन्द्रिकास्मितम्।
एतदुगिरति चन्द्रमण्डलं दिग्रहस्यमिव रात्रिचोदितम्॥६०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः