भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
सीकरव्यतिकरं मरीचिभिर्दू रयत्यवनते विवस्वति।
इन्द्रचापपरिवेषशून्यतां निर्झरास्तव पितुर्व जन्त्यमी॥३१॥
दष्टतामरसकेसरस्रजोः क्रन्दतोर्विपरिवत्तकण्ठयोः।
निघ्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम्॥३२॥
स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम्।
आविभातचरणाय गृह्ते वारि वारिरुहवद्धषट्पदम्॥३३॥
पश्य पश्चिमदिगन्तलम्विना निर्मितं मितकथे विवस्वता।
लब्धया प्रतिमया सरोऽम्भस तापनीयमिव सेतुवन्धनम्॥३४॥
उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्गमतिवाहितातपाः।
दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङकुरा इव॥३५॥
एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलम्।
हीयमानमहरत्ययातापं पीवरोरु पिबतोव वर्हिण:॥३६॥
पूर्वभागतिमिरप्रवृत्तिभिव्यक्तपङ्कमिव जातमेकतः।
खं हृतातपजलं विवस्वता भाति किञ्चिदिव शेषवत्सरः॥३७॥
आविशभिरुटजाङ्गणं मृगैर्मूल-सेक-सरसैश्च वृक्षकैः।
आश्रमाः प्रविशदग्रधेनवो बिभ्रति श्रियमुदीरिताग्नयः॥३८॥
बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम्।
षट्पदाय वसति ग्रहीष्यते प्रीतिपूर्वमिव दातुमत्तरम्॥३९॥
दूरमग्रपरिमेयरश्मिना वारुणी दिगरुणेन भानुना।
भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका॥४०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः