भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
तस्योपकण्ठे घननीलकण्ठः कुतूहलादुन्मुखपौरदृष्टः।
स्वबाणचिह्नादवतीर्य मार्गादासन्नभूपृष्ठमियाय देवः॥५१॥
तमृद्धिमद्वन्धुजनाधिरूढवृन्दैजानां गिरिचक्रवर्ती।
प्रत्युज्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैरिव स्वैः॥५२॥
वर्गावुभौ देवमहीधराणां द्वारे पुरस्योद्घटितापिधाने।
समीयतुद् रविसर्पिघोषौ भिन्नैकसेतू पयसामिवौघौ॥५३॥
ह्रीमानभूद् भूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः।
पूर्व महिम्ना स हि तस्य दूरमावर्जितं नात्मशिरो विवेद॥५४॥
स . प्रीतियोगाद् विकसन्मुखश्रीजमातुरग्रेसरतामुपेत्य।
प्रावेशयन्मन्दिरमृद्धमेनमागुल्फ-कीर्णापण-मार्ग-पुष्पम् ॥५५॥
तस्मिन् मुहूर्ते पुरसुन्दरीणामीशानसंदर्शनलालसानाम्।
प्रासादमालासु बभूवुरित्थं त्यक्तान्यकार्याणि विचेष्टितानि॥५६॥
आलोकमार्ग सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः।
बन्धुं न संभावित एव तावत् करेण रुद्धोऽपि न केशपाशः॥५७॥
प्रसाधिकाऽऽलम्बितमग्रपादमाक्षिप्य काचिद् द्रवरागमेव।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्क पदवों ततान॥५८॥
विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा।
तथैव वातायनसन्निकर्ष ययौ शलाकामपरा वहन्ती॥५६॥
कुमारसंभवम् जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बवन्ध
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः॥६०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः