भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
अद्धचिता सत्वरमुत्थितायाः पदे पदे दृर्निमिते गलन्ती।
कस्याश्चिदासीद् रसना तदानीमङ्गुष्ठमूलापितसूत्रशेषा॥६१॥
तासां मुखैरासवगन्धगर्दैव्या॑प्तान्तराः सान्द्रकुतूहलानाम्।
विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन्॥६२॥
तावत् पताकाकुलमिन्दुमौलिरुत्तोरणं राजपथं प्रपेदे।
प्रासादशृङ्गाणि दिवापि कुर्वज्योत्स्नाभिषेकद्विगुणद्युतीनि॥६३॥
तमेकदश्यं नयनैः पिबन्त्यो नार्यो न जग्मुविषयान्तराणि।
तथाहि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा॥६४॥
स्थाने तपो दुश्चरमेतदर्थमपर्णया पेलवयापि तप्तम्।
या दास्यमप्यस्य लभेत नारी सा स्यात् कृतार्था किमुताङ्शय्याम्॥६५॥
परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत्।
अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां विफलोऽभविष्यत्॥६६॥
न नूनमारूढरुषा शरीरमनेन दग्धं कुसुमायुधस्य।
ब्रीडादमुं देवमुदीक्ष्य मन्ये स न्यस्तदेहः स्वयमेव कामः॥६७॥
अनेन. संबन्धमुपेत्य दिष्ट्या मनोरथप्राथितमोश्वरेण।
मूर्धानमालि क्षितिधारणोच्चमुच्चस्तरं वक्ष्यति शैलराजः॥६८॥
इत्योषधिप्रस्थविलासिनीनां शृण्वन् कथाः श्रोत्रसुखास्त्रिनेत्रः।
केयूरचूर्णीकृतलाजमुष्टि हिमालयस्यालयमाससाद॥६९॥
तत्रावतीर्याच्युतदत्तहस्तः शरद्घनाद्दीधितिमानि वोक्ष्णः।
क्रान्तानि पूर्वं कमलासनेन कक्ष्यान्तराण्यद्रिपतेववेश॥७०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः