भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
उपाददे तस्य सहस्ररश्मिस्त्वष्टा नवं निर्मितमातपत्रम्।
स तदुकूलादविद्रमौलिर्बभौ पतगङ्ग इवोत्तमाङ्गे ॥४१॥
मूर्ते च गङ्गायमुने तदानीं सचामरे देवमसेविषाताम्।
समुद्रगारूपविपर्ययेऽपि सहँसपाते इव लक्ष्यमाणे॥४२॥
तमभ्यगच्छत् प्रथमो विधाता श्रीवत्सलक्ष्मी पुरुषश्च साक्षात्।
जयेति वाचा महिमानमस्य संवर्द्धयन्तौ हविषेव वह्निम्॥४३॥
एकैव मूर्ति र्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम्।
विष्णोर्हरस्तस्य हरिः कदाचिद्वेधा१ स्तयोस्तावपि धातुद्यौ ॥४४॥
-----------------------
१. धातेति तूचितम्।
तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः।
दृष्टिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः॥४५॥
कम्पेन मूर्नः शतपत्रयोनि वाचा हरि वृत्रहणं स्मितेन।
आलोकमात्रेण सुरानशेषान् सम्भावयामास यथाप्रधानम् ॥४६॥
तस्मै जयाशीः ससृजे पुरस्तात् सप्तर्षि भिस्तान् स्मितपूर्वमाह।
विवाहयज्ञे विततेऽत्र यूयमध्वर्यवः पूर्ववृता मयेति॥४७॥
विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमान त्रिपुरावदानः।
अध्वानमध्वान्तविकारलङ्घयस्ततार ताराधिपखण्डधारी ॥४८॥
खे खेलगामी तमुवाह वाहः सशब्दचामीकरकिङ्किणीकः।
तटाभिघातादिव लग्नपर्छ धुन्वन् मुहुः प्रोतघने विषाणे ॥४६॥
स प्रापदप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहर्तात।
पुरोविलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव कृष्यमाणः॥५०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः