भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववासिरे।
क्षत्रशोणितपतृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः॥६१॥
तत् प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित्।
अन्वयुक्त गुरुमीश्वरःक्षिते स्वन्तभित्यलघयत् स तद्व्यथाम्।६२॥
तेजसः सपदि राशिरुत्छितः प्रादुरास किल वाहिनीमुखे।
यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात्॥६३॥
पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत्।
यः ससोम इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रमः॥६४॥
येन रोषपरुषात्मनः पितुः शासने स्थितिभिदोऽपि तस्थुषा।
वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो, मही॥६५॥
अक्षबीजवलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन यः।
क्षत्त्रियान्तकरणैकविंशते-व्यजपूर्वगणनामिवोद्वहन् ॥६६॥
तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम्।
बालसुनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः ॥६७॥
नाम राम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे।
हृद्यमस्य भयदायि चाभवद् रत्नजातमिव हारसर्पयोः॥६८॥
अय॑मर्थ्य मिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रज यतः।
क्षत्त्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकाम्॥६९॥
तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः।
अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना॥७०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः