भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
क्षत्त्रजातमपकारवैरि मे तन्निहत्य बहुशः शमं गतः।
सुप्तसर्प इव दण्डघट्टना रोषितोऽस्मि तव विक्रमश्रवात्॥७१॥
मैथिलस्य धनुरन्यपार्थिवेस्त्वं किलानमितपूर्वमक्षणोः।
तन्निशम्य भवता समर्थये वीर्यशृङ्गमिव भग्नमात्मनः॥७२॥
अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मामगात्।
ब्रीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि॥७३॥
बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतौ समागसौ।
धेनुवत्सहरणाच्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यतः॥७४॥
क्षत्त्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाजिते त्वयि।
पावकस्य महिमा स गण्यते - कक्षवज्ज्वलति सागरेऽपि यः॥७५॥
विद्धि चात्तबलमोजसा हरेरैश्वरं धनुरभाजि यत् त्वया।
खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटमम्॥७६॥
तन्मदीयमिदमायुधं ज्यया सङ्गमय्य सशरं विकृष्यताम्।
तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया॥७७॥
कातरोऽसि यदि वोद्गतार्चिषा तर्जितः परशुधारया मम॥
ज्यानिघातकठिनाङ्गुलिवृथा वध्यतामभययाचनाञ्जलिः॥७८॥
एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः।
तद्धनुग्रहणमेव राघवः प्रत्यपद्यत समर्थमुतरम्॥७९॥
पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवत्।
केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः॥८०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः