भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
तेनाभिघातरभसस्य विकृष्य पत्री
वन्यस्य नेत्रविवरे महिषस्य मुक्तः।
निर्भिद्य विग्रहमशोणितलिप्तपुङ्ख
स्तं पातयां १प्रथममास पपात पश्चात्॥६१॥
प्रायो विषाणपरिमोक्षलघूत्तमाङ्गान्।
खङ्गाँश्वकार नृपतिर्निशितैः क्षुरप्रैः।
शृङ्गं स दृप्तविनयाधिकृतः परेषा
मत्युच्छ्रितं न ममृषे न तु दीर्घमायुः ॥६२॥
व्याघ्रानभीरभिमुखोत्पतितान् गुहाभ्यः
फुल्लासनग्रविटपानिव वायुरुग्णान्।
शिक्षाविशेषलघुहस्ततया निमेषात्
तूणीचकार शरपूरितवक्त्ररन्ध्रान्॥६३॥
निघतोत्रैः कुञ्जलीनाजिघांसु
ज्या॑निर्घोषः क्षोभयामास सिंहान्।
नूनं तेषामभ्यसूयापरोऽभूद्।
वीर्योदग्ने राजशब्दे मृगेषु॥६४॥
तान् हत्वा गजकुलवद्धतीव्रवैरान्
काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान्।
आत्मानं रणकृतकर्मणां गजाना
मानृण्यं गतमिव मार्गणैरमंस्त॥६५॥
चमरान् परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी।
नृपतीनिव तान् वियोज्य सद्यः सितवालव्यजनैर्जगाम शान्तिम्॥६६॥
अपि तुरगसमीपादुत्पतन्तं मयूर
न स रुचिरकलापं बाणलक्ष्योचकार।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे
रतिविगलितबन्धे केशपाशे प्रियायाः ॥६७॥
तस्य कर्कशविहारसंभवं स्वेदमाननविलग्नजालकम्।
आचचाम सतुषारसीकरो भिन्नपल्लवपुटो वनानिलः॥६८॥
इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं धराधिपम्।
परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी॥६९॥
स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम्।
नरपतिरतिवाहयांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम्॥७०॥
-----------------------------
१. व्यवहितप्रयोगोऽपाणिनियोऽप्यश्वघोषादिष्वपि न न प्रसिद्धः।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः