भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः।
तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु॥५१॥
तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः।
ददृशुरध्वनि तं वनदेवताः सुनयनं . नयनन्दितकोसलम्॥५२॥
श्वगणिवागुरिकः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः।
स्थिरतुरङ्गमभूमि निपानवन्मृगवयोगवयोपचितं वनम्॥५३॥
अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम्।
धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी॥५४॥
तस्य स्तनप्रणयिभिमुहुरेणशावे
व्यहन्यमानहरिणीगमनं पुरस्तात्।
आविर्बभूव कुशगर्भमुखं मृगाणां।
यूथं तदाग्रसरगर्वितकृष्णशारम्॥५५॥
तत् प्राथितं जवनवाजिगतेन राज्ञा
तूणीमुखोद्धतशरेण विशीर्णपङक्ति।
श्यामीचकार वनमाकुलदृष्टिपाते
|वतेरितोत्पलदलप्रकरैरिवार्दैः॥५६॥
लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः
प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम्।
आकर्णकृष्टमपि कामितया स धन्वी।
बाणं, कृपामृदुमनाः प्रतिसंजहार॥५७॥
तस्योपरेष्वपि मृगेषु शरान्मुमुक्षोः।
कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः।
त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रः
प्रौढप्रियानयनविभ्रमचेष्टितानि ॥५८॥
उत्तस्थुषः सपदि पलवलपङ्कमध्या
न्मुस्ताप्ररोहकवलावयवानुकीर्णम्।
जग्राह स द्रुतवराहकुलस्य मार्ग
सुव्यक्तमार्द्रपदपङ्क्तभिरायताभिः॥५९॥
तं वाहनादवनतोत्तरकायमीषद
विध्यन्तमुद्धतसटाः प्रतिहन्तुमीषु।
नात्मानमस्य विविदुः सहसा वराहा
वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषुः ॥६०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः