भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
उषसि स गजयूथकर्णतालैः पट्पटहध्वनिभिर्विनीतनिद्रः।
अरमत मधुराणि तत्र शृण्वन् विहगविकूजितवन्दिमङ्गलानि ॥७१॥
अथ जातु रुरोग हीतवत्र्मा विपिने पाश्र्वचरैरलक्ष्यमाणः।
श्रमफेनमुचा तपस्विगाढा तमसां प्राप नदीं तुरङ्गमेण॥७२॥
कुम्भपूरणभवः परुच्चैरुच्चचार निनदोऽम्भसि तस्याः।
तत्र सद्विरदबू हितशङ्की शब्दपातिनमिषु विससर्ज ॥७३॥
नृपतेः प्रतिषिद्धमेव तत् कृतवान् पङक्तिरथो विलङ्घय यत्।
अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमोलिताः॥७४॥
हा तातेति क्रन्दितमाकर्य विषण्ण-
स्तस्यान्विष्यन् वेतसगूढं प्रभवं सः।
शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं।
तापादन्तःशल्य इवासीत् क्षितिपोऽपि॥७५॥
तेनावतीर्य तुरगात् प्रथितान्वयेन।
पृष्टान्वयः स जलकुम्भनिषण्णदेहः।
तस्मै द्विजेतरतपस्विसुतं स्खलभिः।
रात्मानमक्षरपदैः कथयांबभूव॥७६॥
तच्चोदितश्च तमनुधृतशल्यमेव
पित्रोः सकाशमवसन्नदृशोर्निनाय।
ताभ्यां तथागतमुपेत्य तमेकपुत्र
मज्ञानतः स्वचरितं नृपतिः शशंस॥७७॥
तौ दम्पती बह विलप्य शिशोः प्रह
शल्यं निखातमुदहारयतामुरस्तः।
सोऽभूत् परासुरथ भूमिपति शशाप -
हस्तार्पितेर्नयनवारिभिरेव वृद्धः॥७८॥
दिष्टान्तमाप्स्यति भवानपि पुत्रशोका-
दन्त्ये वयस्यहमिवेति तमुक्तवन्तम्।
आक्रान्तपूर्वमिव मुक्तविषं भुजङ्गं।
प्रोवाच कोसलपतिः प्रथमापराद्धः॥७९॥
शापोऽप्यदष्ट-तनयानन–पद्म-शोभे
सानुग्रहो भगवती मयि पातितोऽयम्।
कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो
बीजप्ररोहजननीं ज्वलनः करोति॥८०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः