लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


अलिभिरञ्जनविन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः।
ने खलु शोभयति स्म वनस्थली ने तिलकस्तिलकः प्रमदामिव॥४१॥

अमदयन्मधुगन्धसनाथया किसलयाधरसंगतया मनः।
कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी॥४२॥

अरुणरागनिषधिभिरंशकैः श्रवणलब्धपदैश्च यवाङकुरैः।
परभृताविरुतेश्च विलासिनः स्मरवर्लरबलेकरसाः कृताः॥४३॥

उपचितावयवाशुचिभिः कणैरलिकदम्बकयोगमुपेयुषी।
सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः॥४४॥

ध्वजपटं मदनस्य घनुभं तश्छविकरं मुखचूर्णमृतुश्रियः।
कुसुमकेसररेणुमलिब्रजाः सपवनोपवनोत्थितमन्वयुः ॥४५॥

अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया।
अनयदासनरज्जुपरिग्रहे भुजलतां जल(ड)तामबलाजनः॥४६॥

त्यजत मानमलं बत विग्रहैन पुनरेति गतं चतुरं वयः।
परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः॥४७॥

अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसखः।
नरपतिश्चकमे मृगयारति स मधुमन्मधुमन्मथसंनिभः॥४८॥

परिचयं चललक्ष्यनिपातने भयरुषोश्च तदिङ्गितबोधनम्।
श्रमजयात् प्रगुणां च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ॥४९॥

मृगवनोपगमक्षमवेषभृद् विपुलकण्ठनिषक्तशरासनः।
गगनमश्वखुरोद्धतरेणुभिनृ सविता सवितानमिवाकरोत्॥५०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book