भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
सुरभिसङ्गमजं१ वनमालया नवपलाशमधार्यत भङ्गुरम्।
प्रणयिदत्तमिवार्द्रनखक्षतं प्रमदया मदयापितलज्जया॥ ३१॥
व्रणगुरुप्रमदाधरदुःसहं। जघननिर्विषयीकृतमेखलम।
न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान् हिमम्॥३॥
अभिनयान् परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा।
अमदयत् सहकारलता' मनः संकलिका कलिकामजितामपि॥३३॥
प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः।
सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु॥३४॥
श्रुतिसुखंभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः।
उपवनान्तलता: पवनाहतैः किसलयैः सलयैरिव पाणिभिः॥३५॥
ललितविभ्रमवन्धविचक्षणं सुरभिगन्धपराजितकेसरम्।
पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम्॥३६॥
शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः।
विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहङ्गमाः॥३७॥
उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः।
सदृशमिष्टसमागमनिवृ ति वनितयानितया रजनीवधूः॥३८॥
अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः।
कुसुमचापमतेजयदंशुभिर्हि मकरो मकरोर्जितकेतनम्॥३९॥
हुतहताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत्।
युवतयः कुसुमं दधुराहितं तदल के दलकेसरपेशलम्॥४०॥
----------------------------------
१. उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किशुके।
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया। म.
स हि ‘सुरभिसङ्गमे-ति पद्यं न पठति पाठान्तरत्वेनापि। हेमाद्रिप्रभृतयस्तु पठन्ति। उद्धृतं चैतदेव पद्यं व्यक्तिविवेके। एतदेव च युक्तम्, पुरुषकर्तृकत्वमत्र व सिद्धयति नखक्षेतानामिति। संवादी चात्र कालिदासो ‘बालेन्दु-वक्राणी'-ति ३।२९ कुमारसम्भवपद्ये।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः