भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
अजिनदण्डभृतं कुशमेखलां -यतगिरं मृगशृङ्गपरिग्रहाम्।
अधिवसंस्तनुमध्वर - दीक्षिता - मसमभासमभासयदीश्वरः ॥२१॥
अवभृथप्रयतो नियतेन्द्रियः। सुरसमाजसमाक्रमणोचितः।
नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः॥२२॥
असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भूता।
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण। सुरद्विषाम्॥२३॥
अथ समाववृते कुसुमैनंवैस्तमिव सेवितुमेकनराधिपम्।
यमकुबेरजलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम्॥२४॥
जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः।
दिनमुखानि रविहिमनिग्रहैविमलयन्मलयन्नगमत्यजत् ॥२५॥
कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम्।
इति यथाक्रममाविरभून्मधुमवतीमवतीर्य वनस्थलीम्॥२६॥
नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियमथिनः।
अभिययुः सरसो मधुसंभृतां कमलिनी मलिनीरपतत्त्रिणः॥२७॥
कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम्।
किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः॥२८॥
विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः।
मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ॥२९॥
सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः।
मधुकरैरकरोन्मधुलोलुपे - बैकुलमाकुलमायत - पङ्क्तिभिः॥३०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः