भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भातः।
विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः॥११॥
शमितपक्षवलः शतकोटिना शिखरिणां कुलिशेन पुरन्दरः।
सशरवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः॥१२॥
चरणयोर्नखरागसमृद्धिभि-मैकुटरत्नमरीचिभिरस्पृशन्।
नृपतयः शतशो मरुतो यथा शतम खं तमखण्डितपौरुषम्॥१३॥
निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन्।
समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीम्॥१४॥
उपगतोऽपि च मण्डलनाभितामनुदितान्यसितातपवारणः।
श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः॥१५॥
तमपहाय ककुत्स्थकुलोद्भवं पुरुषमात्मभुवं च पतिव्रता।
नृपतिमन्यमसेवत देवता संकमला कमलाघवमथिषु ॥१६॥
तमलभन्त पति पतिदेवताः शिखरिणामिव सागरमापगाः।
मगधकोसलकेकयशासनां दुहितरोऽहितरोपितमार्गणम्॥१७॥
प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः।
उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः ॥१८॥
स किल संयुगमृध्नि: सहायतां मघवतः प्रतिपद्य महारथः।
स्वभुजवीर्यमगापयच्छितं सुरवधूरवधूतभयाः शरैः॥१९॥
क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः।
कनकयूपसमुच्छ्यशोभिनो वितमसा तमसासरयूतटाः ॥२०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः