भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः।
प्रत्युज्जगाम क्रथकै शिकेन्द्रश्चन्द्रं प्रवृद्धोमिरिवोमिमाली॥६१॥
प्रवेश्य चैनं पुरमग्रयायी नीचैस्तथोपाचरदर्पितश्रीः।
मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ॥६२॥
तस्याधिकारपुरुषैः प्रणतः, प्रदिष्टां
प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम्।
रम्यां रघुप्रतिनिधिः स नवोपकार्यो
बाल्यात् परामिव दशां मदनोऽध्युवास॥६३॥
तत्र स्वयंवरसमाहृतराजलोकं
कन्याललाम कमनीयमजस्य लिप्सोः।
भावावबोधकलुषा दयितेवरात्रौ
निद्रा चिरेण नयनाभिमुखी बभूव॥६४॥
तं कर्णभूषणनिपीडितपीवरांसं
शय्योत्तरच्छदविमर्दकृशाङ्गरागम्।
सूतात्मजाः सवयसः प्रथितप्रबोधं
प्राबोधयन्नुषसि वाग्भिरुदारवाचः॥६५॥
रात्रिर्गत मतिमतां वर मुञ्च शय्यां
धात्रा द्विधैव ननु धूर्जगतो विभक्ता।
तामेकतस्तव बिभत गुरुविनिद्र
स्तस्या भवानपरधुर्यपदावलम्वी॥६६॥
निद्रावशेन भवताप्यनवेक्ष्यमाणा
पर्युत्सुकत्वमबला निशि खण्डितेव।
लक्ष्मीविनोदयति येन दिगन्तलम्बी।
सोऽपि त्वदाननरुचि विजहाति चन्द्रः॥६७॥
तद् वल्गुना युगपदुन्मिषितेन तावत्।
सद्यः परस्परतुलामधिरोहतां द्वे।
प्रस्पन्दमानपरुषतरतारमन्त॥
श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम्॥६८॥
वृन्ताच्छ्लथं हरति पुष्पमनोकहानां
संसृज्यते सरसिजेररुणांशुभिन्नैः।
स्वाभाविक परगुणेन विभातवायुः
सौरभ्यमीप्सुरिव ते मुखमारुतस्य ॥६९॥
ताम्रोदरेषु पतितं तरुपल्लवेषु
निधतहारगुलिकाविशदं हिमाम्भः।
आभाति लब्धपरभागतयाऽधरोष्ठे॥
लीलास्मितं सदशनाचरिव त्वदीयम् ॥७०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः