भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
स विद्धमात्रः किल नागरूपमुत्सृज्य तद् विस्मितसैन्यदृष्टः।
स्फुरत्प्रभामण्डलमध्यवत्त कान्तं वपुव्र्योमचरं प्रपेदे॥५१॥
अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः।
उवाच वाग्मी दशनप्रभाभिः संवधितोरःस्थलतारहारः॥५२॥
मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम्।
अवेहि गन्धर्वपतेस्तनूजं प्रियम्वदं मां प्रियदर्शनस्य ॥५३॥
स चानुनीतः प्रणतेन पश्चान्मया महषिर्म दुतामगच्छत्।
उष्णत्वमग्न्यातपसंप्रयोगाच्छैत्यं हि यत् सा प्रकृतिर्जलस्य॥५४॥
इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन।
संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत् स तपोनिधिर्माम्॥५५॥
संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्राथतदर्शनेन।
प्रतिप्रियं चेद् भवतो न कुर्यां वृथा हि मे स्यात् स्वपदोपलब्धिः॥५६॥
संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम्।
गान्धर्वमादत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते॥५७॥
अलं हिया मां प्रति यन्मुहूर्त दयापरोऽभूः प्रहरन्नपि त्वम्।
तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम्॥५८॥
तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः।
उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापात्॥५९॥
एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु।
एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान्॥६०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः