भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
स किंवदन्तीं वदतां पुरोगः स्ववृत्तमुद्दिश्य विशुद्धवृत्तः।
सर्पाधिराजोरुभुजोऽपसर्प पप्रच्छ भद्रं विजितारिभद्रः॥३१॥
निर्बन्धपृष्टः स जगाद सर्व स्तुवन्ति पौराश्चरितं त्वदीयम्।
अन्यत्र रक्षोभवनोषितायाः परिग्रहामानवदेव देव्याः ॥३२॥
कलत्रनिन्दागुरुणा किलैवमभ्याहतंकीतिविपर्ययेण।
अयोधनेनाय इवाभितप्तं वैदेहिबन्धोहृदयं विदद्रे॥३३॥
किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत संत्यजानि।
इत्येकपक्षाश्रयविक्लववादासीत् स दोलाचलचित्तवृत्तिः॥३४॥
निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परि माष्टुमैच्छत्।
अपि स्वदेहात् किमुतेन्द्रियार्थाद् यशोधनानां हि यशो गरीयः॥३५॥
स संनिपात्यावरजान् हतौजास्तदविक्रियादर्शनलुप्तहर्षान्।
कौलीनमात्माश्रयमाचचक्षे तेभ्य: पुनश्चेदमुवाच वाक्यम्॥३६॥
राजषिवंशस्य रविप्रसूतरुपस्थितः पश्यत कोदशोऽयम्।
मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य ॥३७॥
पौरेषु सोऽहं१ बहुलीभवन्तमपां तरङ्गेष्विव तैलबिन्दुम्।
सोढुं न तत्पूर्वमवर्णमीशे२ ह्यालानिकं स्थाणुमिव द्विपेन्द्रः॥३८॥
तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि नियंपेक्षः।
त्यक्ष्यामि वैदेहसुतां पुरस्तात् समुद्रनेमि पितुराज्ञयेव॥३९॥
अवैमि चैनामनघेति किन्तु लोकापवादो बलवान् मतो मे।
छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः॥४०॥
----------------------------------
१. विपुली० हे.
२. आला० म.
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः