भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
रक्षोवधान्तो न च मे प्रयासो व्यर्थः स व रप्रति मोचनाय।
अमर्षणः शोणितकाङ्क्षया कि पंदा स्पृशन्तं दशति द्विजिह्वः॥४१॥
तदेष सर्गः करुणाद्गचितैर्न मे भवभिः प्रतिषेधनीयः।
यद्यथिता निहू तवाच्यशल्यान् प्राणान् मया धारयितुं चिरं वः॥४२॥
इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमोशम्।
न कश्चन भ्रातृषु तेषु शक्तो निषेद्धमासीदनुमोदितुं वा॥४३॥
स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीतिः।
सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश॥४४॥
प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव।
से त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यज॑नाम्॥४५॥
स शुश्रुवान् मातरि भार्गवेण पितुनियोगात् प्रहृतं द्विषवत्।
प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरूणां ह्यविचारणीया॥४६॥
अथानुकूलश्रवणप्रतीतामत्रस्नुभियुक्तधुरं तुरङ्गैः।
रथं सुमन्त्रप्रतिपन्नरश्मिमारोप्य वैदेहसुतां प्रतस्थे॥४७॥
सा नीयमाना रुचिरान् प्रदेशान् प्रियङ्करो मे प्रिय इत्यनन्दत्।
नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम्॥४८॥
जुगूह तस्याः पथि लक्ष्मणो यत् सव्येतरेण स्फुरता तदक्ष्णा।
आख्यातमस्यै गुरु भावि दुःखमत्यन्तलुप्तप्रियदर्शनेन॥४९॥
सा दुनिमित्तोपगताद् विषादात् सद्यः परिम्लानमुखारविन्दा।
राज्ञः शिवं सावरजस्य भूयादित्याशशंसे करणैबाह्यैः ॥५०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः