भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
पितुनियोगाद् वनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः।
धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम्॥२१॥
सर्वासु मातृष्वपि वत्सलत्वात् स निविशेषप्रतिपत्तिरासीत्।
षडाननापीतपयोधरासुनेता चमूनामिव कृत्तिकासु॥२२॥
तेनार्थवाँल्लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान्।
तेनास लोकः पितृमान् विनेत्रा तेनैव शोकापनुदेन पुत्री ॥२३॥
स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेदु हित्रा।
उपस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या॥२४॥
तयोर्यथाप्रथितमिन्द्रियार्थानासेदुषोः सद्मसु चित्रवत्सु।
प्राप्तानि दुःखान्यपि दण्डकेषु संचिन्त्यमानानि सुखान्यभूवन्॥२५॥
अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण।
आनन्दयित्री परिणेतुरासीदनक्षरव्यञ्जितदोहदेन ॥२६॥
तामङ्मारोप्य कृशाङ्गयष्टि वर्णान्तराक्रान्तपयोधराग्राम्।
विलज्जमानां रहसि प्रतीतः पप्रच्छ राम रमणोऽभिलाषम्॥२७॥
सा दष्टनीवारबली नि हिंस्रः संबद्धवैखानसकन्यकानि।
इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि॥२८॥
तस्यै प्रतिश्रुत्य रघुप्रवीरस्तदीप्सितं पाश्र्वचरानुयातः।
आलोकयिष्यन् मुदितामयोध्यां प्रासादमभ्र लिहमारुरोह ॥२९॥
ऋद्धापणं राजपथं से पश्यन् विगाह्यमानां सरयू' च नौभिः।
विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे॥३०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः