भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
|
मित्रकृत्यमपदिश्य पार्वतः प्रस्थितं तमनवस्थितं प्रियाः।
विद्महे शठ पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहः॥३१॥
तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रमपदिश्य१ योषितः।
अध्यशैरत बृहद् भुजान्तरं पीवरस्तनविलुप्तचन्दनम् ॥३२॥
संगमाय निशि गूढचारिणं चारदूतिकथितं पुरोगताः।
वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चकृषुस्तमङ्गनाः॥३३॥
योषितामूड़पतेरिवाचिषां स्पर्शनिवु तिमसाववाप्नुवन्२।
आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः॥३४॥
वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः३।
शिल्पकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन्॥३५॥
अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यमुपधाय दर्शयन्।
स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसन्निधौ॥३६॥
अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः।
प्रावृषि प्रमदवहिणेष्वभूत् कृत्रिमाद्रिषु विहारविभ्रमः॥३७॥
विग्रहाच्च शयने पराङ्मुखीननुनेतुमबलाः स तत्वरे।
आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीभु जान्तरम्॥३८॥
कातकीषु सवितानहर्त्यभाग यामिनीषु ललिताङ्गनासखः।
अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम्॥३९॥
सैकतं च सरयू विवृण्वतीं श्रोणिबिम्वमिव हंसमेखलाम्४।
स्वप्रियाविलसितानुकारिणीं सौधजालविवरैर्यलोकयत्॥४०॥
-------------------------------
१, कण्ठसूत्रं सुरतबन्धविशेषः।
२. वनाप्नुवन् पा०
३. '०रसः पा०
४. ०मेखलम्-म०
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः