लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0



घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः।
अभ्यपद्यत स वासितासखः पुष्पिता कमलिनीरिव द्विपः॥११॥

सातिरेकमदकारणं रहस्तेन दत्तमभिलेषुरङ्गनाः।
ताभिरप्युपहृतं मुखासवं सोऽपिबद् बकुलतुल्यदोहदः ॥१२॥

अङ्कमपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे।
वल्लकी च हृदयङ्गमस्वना वल्गुवागपि च वामलोचना॥१३॥

स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः।
नर्तकीरभिनयातिलङ्घिनीः पाश्र्ववतषु गुरुष्वलज्जयत्॥१४॥

चारु नृत्यनिगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमात्।
प्रेमदत्तवदनानिलः पिबन्नत्यजीव- १दमरालकेश्वरौ॥१५॥

तस्य सावरणदृष्टसन्धयः काम्यवस्तुषु नवेषु सङ्गिनः।
वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः॥१६॥

अङ्गुलीकिसलयाग्रतर्जनं भ्र विभङ्गकुटिलं च वीक्षितम्।
मेखलाभिरसकृच्च बन्धनं वञ्चयन् प्रणयिनीरवाप सः॥१७॥

तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु।
शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः॥१८॥

लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्द्वपुः।
वर्तते स्म स कथंचिदलिखन्नङ्गुलीक्षरणसन्नवर्तिकः ॥१९॥

प्रेमगर्वितविपक्षमत्संरादायताच्च मदनान्महीक्षितम्।
निन्युरुत्सवविधिच्छलेन तं देव्य उज्झितरुषः कृतार्थताम्॥२०॥
-------------------------------
१. अमराया अमरावत्या अलकायाश्चेत्यपिच्छेदः। द्र० हेमाद्रेर्दर्पणः।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book