भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
|
एकोनविंशः सर्गः
अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम्।
शिश्रिये श्रुतवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥१॥
तत्र तीर्थसलिलेन दीघकास्तल्पमतरितभूमिभिः कुशैः।
सौधवासमुटजेन विस्मृतः सञ्चिकाय फलनिःस्पृहस्तपः॥२॥
लब्धपालनविधौ न तत्सुतः खेदमाप गुरुणा हि मेदिनी।
भोक्तुमेव भुजनिर्जितद्विषो न प्रसाधयितुमस्य कल्पिता॥३॥
सोऽधिकारमभिकः कुलोचितं काश्चन स्वयमवर्तयत् समाः।
संनिवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवत्॥४॥
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु।
ऋद्धिमन्तमधिकद्धरुत्तरः पूर्वमुत्सवमपोहदुत्सवः॥५॥
इन्द्रियार्थपरिशुन्यमक्षमः सोढुमेकमपि स क्षणान्तरम्।
अन्तरेव विहरन् दिवानिशं न व्यर्पक्षत समुत्सुकाः प्रजाः ॥६॥
गौरवाद् यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ।
तद् गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम्॥७॥
तं कृतप्रणतयोऽनुजीविनः कोमलात्मनखरागरूषितम्।
भेजिरे नवदिवाकरातपस्पृष्टपङ्जतुलाधिरोहणम् ॥८॥
यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः।
गूढ मोहन गृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः॥९॥
तत्र सेकहृतलोचनाजनैधौंतरागपरिपाटलाधरैः।
अङ्गनास्तमधिकं व्यलोभयन्नपंतप्रकृतकान्तिभिर्मुखैः॥१०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः