भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
एवं यदात्थ भगवन्नामृष्टं नः परैः पदम्।
प्रत्येक विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥३१॥
भवल्लब्धवरोदोर्णस्तारकाख्यो महासुरः।
उपप्लवाय लोकानां धूमकेतुरिवोत्थितः॥३२॥
पुरे तावन्तमेवास्य तनोति रविरातपम्।
दीघकाकमलोन्मेषो यावन्मात्रेण साध्यते॥३३॥
सर्वाभिः सर्वदा चन्द्रस्तं कलाभिनिषेवते।
नादत्ते केवल लेखां हरचूडामणीकृताम्॥३४॥
व्यावृत्तगतिरुद्याने : कुसुमस्तेयसाध्वमात्।
न वाति वायुस्तत्पाश्र्वे तालवृन्तानिलाधिकम्॥३५॥
पर्यायसेवामुत्सृज्य पुष्पसंभारतत्पराः।
उद्यानपाल–सामान्यमृतवस्तमुपासते॥३६॥
कुमारसंभवम् तस्योपायनयोग्यानि रत्नानि सरितां पतिः।
कथमप्यम्भसामन्त-रानिष्पत्तेः प्रतीक्षते॥३७॥
ज्वलन्मणि शिखाश्चैनं. वासुकिप्रमुखा निशि।
स्थिरप्रदीपतामेत्य भुजङ्गाः पर्युपासते॥३८॥
तत्कृतानुग्रहापेक्षी तं मुहुई तहारितैः।
अनुकूलयतीन्द्रोऽपि कल्पद्मविभूषणैः॥३९॥
इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम्।
शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः ॥४०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः