भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
या नः प्रीतिवरूपाक्ष त्वदनुध्यानसंभवा।
सा किमावेद्यते तुभ्यमन्तरात्मासि देहिनाम् ॥२१॥
साक्षाद् दृष्टोऽसि न पुनर्वग्नस्त्वां वयमञ्जसा।
प्रसीद कथयात्मानं न धियां पथि वर्तसे ॥२२॥
किं येन सृजसि व्यक्तमुत येन बिभर्ष तत्।
अथ यस्तस्य संहर्ता भागः कतम एष ते॥२३॥
-----------------------------
१. दाम्पत्यं मूलसाधनम्-सा.
अथवा सुमहत्येषा प्रार्थना देव तिष्ठतु।
चिन्तितोपस्थिताँस्तावच्छाधि नः करवाम किम् ॥२४॥
अथ मौलिगतस्येन्दोविशदैर्दशनांशुभिः।
उपचिन्वन् प्रभां तन्वीं प्रत्याह परमेश्वरः ॥२५॥
विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः।
ननु मूतिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः ॥२६॥
सोऽहं तृष्णातुरेवृष्टि विद्युत्वानिव चातकैः।
अरिविप्रकृतैर्देवैः प्रसूति प्रति याचितः॥२७॥
अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने।
उत्पत्तये हविर्भोक्तुर्यजमान इवारणिम्॥२८॥
तामस्मदर्थे युष्माभिर्याचितव्यो हिमालयः।
विक्रियाये न कल्पन्ते संबन्धाः सदनुष्ठिताः ॥२९॥
उन्नतेन स्थितिमता धुरमुद्द्वहता भुवः।
तेन योजितसंबन्धं वित्त मामध्यवञ्चितम्॥३०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः