भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
मृगाः प्रियालदूममञ्जरीणां रजःकणैर्विनितदृष्टिपाताः।
मदोद्धताः प्रत्यनिलं विचेरुव॑नस्थलीर्मर्मरपत्रमोक्षाः॥३१॥
चूताङ्कुरास्वादकषायकण्ठः पुस्कोकिलो यन्मधुरं चुकूज।
मनस्विनोमानविघातदक्षं तदेव जातं वचनं स्मरस्य॥३२॥
हिमव्यपायाद् विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम्।
स्वेदोद्गमः किम्पुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥३३॥
तपस्विनः स्थाणुवनौकसस्तामाकालिकीं वीक्ष्य मधुप्रवृत्तिम्।
प्रयत्नसंस्तम्भितविक्रियाणां कथंचिदशा मनसां बभूवुः॥३४॥
तं देशमारोपितपुष्पचापे रतिद्वितीये मुदने प्रपन्ने।
काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्र:॥३५॥
मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः।
शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णशारः॥३६॥
ददौ रसात् पङ्कजरेणुगन्धि गजाय गण्डषजलं करेणुः।
अपभुक्तेन बिसेन जायां संभावयामास रथाङ्गनामा॥३७॥
गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छवासितपत्रलेखम्।
पुष्पासवाघूणतनेत्रशोभि प्रियामुखं किम्पुरुषश्चुचुम्बे॥३८॥
पर्याप्तपुष्पेस्तबकस्तनाभ्यःस्फुरत्प्रवालोष्ठमनोहराभ्यः।
लतावधूभ्यस्तरवोऽप्यवापुविनम्रशाखाभुजबन्धनानि॥३९॥
श्रुताप्सरोगीतिरपि क्षणेऽस्मिन् हरः प्रसंख्यानपरो बभूव।
आत्मेश्वराणां नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति॥४०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः