भारतीय जीवन और दर्शन >> मेघदूतम्-कालिदास विरचित मेघदूतम्-कालिदास विरचितसंसारचन्द्र
|
0 |
दीर्घाकुर्वन् पटु मदकले कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः।।३१।।
जालोद्गीरुपचितवपुः केशसंस्कारधूपै
बन्धुप्रीत्या भवनशिखिभिर्दत्तवृत्तोपहारः।
हम्र्येष्वस्थाः कुसुमसुरभिष्वध्वखेदं नयेथा।
लक्ष्मीं पश्यंल्ललितवनितापादरागाङ्कितेषु।।३२।।
भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः
पुण्यं यायास्त्रिभुवनगुरोधम चण्डीश्वरस्य।।
धृतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या
स्तोयकीडानिरतयुवतिस्नानतिक्त र्मरुद्भिः।।३३।।
अप्यन्यस्मिजलधर* महाकालमासाद्य काले
स्थातव्यं ते नयनविषयं यावदत्येति भानुः।।
कुर्वन् संध्यावलिपटहतां शूलिनः श्लाघनीया।
मामन्द्राणां फलमविकलं लप्स्यसे गजितानाम्।।३४।।
पादन्यासः क्वणितरशनास्तत्र लीलावधूत
रत्नच्छायाखचितबलिभिश्चामरैः क्लान्तहस्ताः।
वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाप्रविन्दू
नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्।।३५।।
* “कालीसिन्ध' नाम्नी सरित्।।
पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः।
सान्ध्यं तेजः प्रतिनबजपापुष्परक्त दधानः।।
नृत्यारम्भे हर पशुपतेरार्दनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या।।३६।।
गच्छन्तीनां रमणवसति योषितां तत्र नक्त
रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः।
सौदामच्या कनकनिकषस्निग्धया दर्शयोर्वी
तोयोत्सर्गस्तनितमुखरो मा स्म भूविक्लवास्ताः।।३७।।
तां कस्यांचिद् भवनवलभौ सुप्तपारावतयां
नीत्वा रात्रि चिरविलसनात् खिन्नविद्युत्कलत्रः।
दृष्टे सूर्ये पुनरपि भवान् वाहयेदवशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः।।३८।।
तस्मिन् काले नयनसलिलं योषितां खण्डिताना
" शान्ति नेयं प्रणयिभिरतो वर्मं भानोस्त्यजाशु।।
प्रालेयास्र कमलवदनात् सोऽपि हर्तुं नलिन्याः
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः।।३९।।
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने।
छायात्मपि प्रकृतिसुभगो लप्स्यते ते प्रवेशम्।।
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धेय
मोघोकर्तुं चटुलशफरोवर्तन प्रेक्षितानि।।४०।।
|