भारतीय जीवन और दर्शन >> मेघदूतम्-कालिदास विरचित मेघदूतम्-कालिदास विरचितसंसारचन्द्र
|
0 |
नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढ-
राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम्।
दग्धाऽरण्येऽवधिकसुरभि गन्धमाघ्राय चोव्यः।
सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम्।२१।।
उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः
कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते।
शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केका:
प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत्।।२२।।
पाण्डुच्छायोपवनवृतयः केतकः सूचिभिन्नै
डारम्भैगृहवलिभुजाभाकुलग्रामचैत्याः।
त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः
संपत्स्यन्ते कतिपयदिनस्थाथिहंसा दशाणः।।२३।।
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानी
गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा।।
तोरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात्।
सभ्र भङ्ग मुखमिव पयो वेत्रवत्याश्चलोमि।।२४।।
नोचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो
स्त्वत्संपर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः।
यः पण्यस्त्रीरतिपरिमलोद्गारिभिनगराणा-।
मुद्दामानि प्रथयति शिलावेरमभियवनानि।।२५।।
विश्रान्तः सन् व्रज बननदीतीरजातानि सिञ्च
न्नुद्यानानां नवजलकणैथिकाजालकानि।
गण्डस्वेदापनयनरुजाक्लान्तकर्योत्पलाना
छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम्।।२६।।
वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां।
सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः।।
विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां
लोलापाज्ञैर्यदि न रमसे लोचनैर्, वञ्चितोऽसि।।२७।।
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दशितावर्तनाभेः।
निवन्ध्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य
स्त्रीणामाद्यं प्रणयवचनं विनंमो हि प्रियेषु।।२८।।
मेघदूतम् वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः1
पाण्डुच्छाया तटरुहतरुभ्र शिभिर्जीर्णपणैः।
सौभाग्यं ते सुभग ! बिरहावस्थया व्यञ्जयन्ती।
काश्यं येन त्यजति विधिना स त्वयैवोपपाद्यः।।२९।।
प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्।
पूर्वोद्दिष्टामनुसर पुरीं श्रीविशाल विशालाम्।
स्वल्पीभूते सुचरितफले स्वगणां गां गतानां
शेषैः पुण्यैहृ तमिव दिवः कान्तिमत् खण्डमेकम्।।३०।।
|