लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


बलमार्तभयोपशान्तये विदुषां सत्कृतये बहुश्रुतम्।
वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना॥३१॥

स कदाचिदवेक्षितप्रजः सहू देव्या विजहार सुप्रजाः।
नगरोपवनेशचीसखो मरुतां पालयितेव नन्दने॥३२॥

अथ रोधसि दक्षिणोदधेः श्रितगोकर्णनिकेतमीश्वरम्।
उपवोणयितुं ययौ रवेरुदयावृत्तिपथेन नारदः ॥३३॥

कुसुमैग्रंथितामपाथिर्वः स्रजमातोद्यशिरोनिवेशिताम्।
अहरत् किले तस्य वेगवानधिवासस्पृहयेव मारुतः॥३४॥

भ्रमरैः कुसुमानुसारिभिः परिकीण परिवादिनी मुनेः।
ददृशे पवनावलेपजे सृजती वाष्पमिवाञ्जनाविलम्॥३५॥

अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम्।
नृपतेरमरस्रगाप सा दयितोरुस्तनकोटि- १सुस्थितिम् ॥३६॥

क्षणमात्रसखीं सुजातयोः स्तनयोस्तामवलोक्य विह्वला।
विमिमील नरोत्तमप्रिया हृतचन्द्रा२ तैम सेव कौमुदी॥३७॥

वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत्।
ननु तैलनिषेकविन्दुना सह दोपार्चिरुपैति मेदिनीम्॥३८॥

उभयोरपि पाश्र्ववर्तिनां : तुमुलेनार्त रवेण वेजिताः।
विहगा: कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः॥३९॥

नृपतेयंजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता।
प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते॥४०॥
---------------------------
१. '०रश्छदकोटिषु स्थि०' हे. अत्र बहुत्वं व्यर्थम्।
२. तमसा राहुणा।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book