भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वृणितेन नागः।
स्वभर्तृ नामग्रहणाद् बभूव सान्द्रे रजस्यात्मपरावबोधः॥४१॥
आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजम्भितस्य।
शस्त्रक्षताश्वद्विपवीर जन्मा बालारुणोऽभूद् रुधिरप्रवाहः॥४२॥
स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात् पवनावधूतः।
अङ्गारशेषस्य हुताशेनस्य पूर्वोत्थितो धूम इवावभासे॥४३॥
प्रहारमूच्र्छापगमे रथस्था यन्तृनुपालभ्य निवतिताश्वान्।
यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः॥४४॥
अप्यर्धमार्गे परवाणलूना धनुर्भतां हस्तवतां पृषत्काः।
संप्रापुरेवात्म-जवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम्॥४५॥
आधोरणानां गजसंनिपाते शिरांसि चक्रनिशितैः क्षुराग्नः।
हृतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः॥४६॥
पूर्व प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी।
तुरङ्गमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष॥४७॥
तनुत्यज वर्मभृतां विकोशैबृहत्सु दन्तेष्वसिभिः पतभिः।
उद्यन्तमग्नि शमयांवभूवुर्गजा विविग्नाः करसीकरेण ॥४८॥
शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव।
रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः॥४९॥
उपान्तयनिष्कुषितं विहङ्गैक्षिप्य तेभ्यः पिशितप्रियापि।
केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदमपाचकार॥५०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः