भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम्।
विश्वासाय विहङ्गानामालवालाम्बुपायिनाम्॥५१॥
आतपात्ययसंक्षिप्तनीवारासु निषादिभिः।
मृगैर्वतित - रोमन्थ - मुटजाङ्गन - भूमिषु॥५२॥
अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान्।
पुनानं पवनोधूर्तधूमैराहुतिगन्धिभिः॥५३॥
अथ यन्तारमादिश्य धुर्यान् विश्रामयेति सः।
तामवारोयत् पत्नीं रथादेवततार च॥५४॥
तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे॥५५॥
विधेः सायंतनस्यान्ते स ददर्श तपोनिधिम्।
अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम्॥५६॥
तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी।
तौ गुरुर्गुरुपत्नी चे प्रीत्या प्रतिननन्दतुः॥५७॥
तमातिथ्यक्रिया-शान्त-रथ-क्षोभ-परिश्रमम्।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनि मुनिः॥५८॥
अथाथर्वनिर्धस्तस्य विजितारिपुरः पुरः।
अथ्र्यामर्थपतिर्वाचमाददे वदतां वरः॥५९॥
उपपन्न ननु शिवं सप्तस्वङ्गेषु यस्य मे।
दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम्॥६०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः