लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत्।
काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः॥७१॥

महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्त पिनाकिलीलः।
चकार वाणै रसुराङ्गनानां गण्डस्थली: प्रोषितपत्रलेखाः ॥७२॥

ऐरावतस्फालनविश्लथं यः संघट्टयन्नङ्गदमङ्गदेन।
उपयुषः स्वामपि मूतमग्रयामर्धासनं गोत्रभिदोऽधितष्ठौ ॥७३॥

जात: कुले तस्य किलोरुकीतिः कुलप्रदीपो नृपतिदिलीपः।
अतिष्ठदे कोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः॥७४॥

यस्मिन् महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम्।
वातोऽपि नासँसयदंशुकानि को लम्वयेदाहरणाय हस्तम्॥७५॥

पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोविश्वजितः प्रयोक्ता।
चतुदगार्वाजतसंभृतां यो मृत्पात्रशेषामकरोद् विभूतिम्॥७६॥

आरूढमढ़ीनुदधीन् वितीर्ण भुजङ्गमानां वसति प्रविष्टम्।
ऊर्ध्वं गतं यस्य न चानुवन्धि यशः परिच्छेतुमियत्तयाऽलम्॥७७॥

असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पति जयन्तः।
गुर्वी धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशीं विभति॥७८॥

कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तै विनयप्रधानैः।
त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥७९॥

ततः सुनन्दावचनावसाने लज्जां तनुकृत्य नरेन्द्रकन्या।
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत् संवरणस्रजेव॥८०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book