भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
विन्ध्यस्य संस्तम्भयिता महाद्र र्निःशेषपीतोज्झितसिन्धुराजः।
प्रीत्याश्वमेधावभृथाई मूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः॥६१॥
अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्तः।
पुरा जनस्थानविमर्दशी संधाय लङ्काधिपतिः प्रतस्थे॥६२॥
अनेन पाणी विधिवद् गृहीते महाकुलीनेन महीव गुर्वी।
रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः॥६३॥
ताम्बूलवल्ली–परिणद्ध-पूगास्वेलालतालिङ्गित-चन्दनासु।
तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु॥६४॥
इन्दीवरश्यामतनुन पोऽसौ त्वं रोचनागौरशरीरयष्टिः।
अन्योन्यशोभापरिवद्धये वां योगस्तडित्तोयदयोरिवास्तु॥६५॥
स्वसुविदर्भाधिपतेस्तदीयो लेभेऽन्तर चेतसि नोपदेशः।
दिवाकरादर्शनवद्धकोशे नक्षत्रनाथांशुरिवारविन्दे॥६६॥
संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिम्वरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥६७॥
[ ८ ]
तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूत्।
वामेतरः संशयमस्य बाहुः केयूरवन्धोच्छ्वसितर्नुनोद॥६८॥
तं प्राप्य सर्वावयवानवचं व्यावर्त्ततान्योपगमात् कुमारी।
न हि प्रफुल्लं सहकारमेत्य वृक्षान्तर काङ्क्षति षट्पदाली॥६९॥
तस्मिन् समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य।
प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तर वाक्यमिदं सुनन्दा ॥७०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः