भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
स पृष्टः सर्वतो वार्त्तमाख्यद् राज्ञे न संततिम्।
प्रत्यर्पयिष्यतः काले कवेराद्यस्य शासनात्॥४१॥
अथ जानपदो विप्रः शिशु मप्राप्तयौवनम्।
अवतार्याङ्शय्यास्थं द्वारि चक्रन्द भूपतेः ॥४२॥
शोचनीयाऽसि वसुधे या त्वं दशरथाच्च्युता।
रामहस्तमनुप्राप्य कष्टात् कष्टतरं गता॥४३॥
श्रुत्वा तस्य शुचो हेतु गोप्ता जिह्राय राघवः।
न ह्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत्॥४४॥
स मुहूर्त क्षमस्वेति द्विजमाश्वास्य दुःखितम्।
यानं सस्मार कौवेरं १वैवस्वतजिगीषया॥४५॥
आत्तशस्त्रस्तदध्यास्य प्रस्थितः स रघुद्द्वहः।
उच्चचार पुरस्तस्य गूढरूपा सरस्वती॥४६॥
राजन प्रजासु ते कश्चिदपचारः प्रवर्तते।
तमन्विष्य प्रशमयेर्भवितासि ततः कृती॥४७॥
इत्याप्तवचनाद् रामो विनेष्यन् वर्णविक्रियाम्।
दिशः पपात पत्त्रेण। वेगनिष्कम्पकेतुना॥४८॥
अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम्।
ददर्श कञ्चिदैक्ष्वाकस्तपस्यन्तमधोमुखम् ॥४९॥
पष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः।
आत्मानं शम्बुकं नाम शूद्रं सुरपदाथिनम्॥५०॥
---------------------------
१. वैवस्वतस्य यमस्य.
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः