भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता।
जानकी विषवल्लीभिः परीतेव महौषधिः॥६१॥
तस्यै भर्तुरभिज्ञानमङ्गुलीयं ददौ कपिः।
प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबिन्दुभिः॥६॥
निर्वाप्य प्रियसंदेशैः सीतामक्षवधोधतः।
स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः॥६३॥
प्रत्यभिज्ञानरत्नं च रामायादर्शयत् कृती।
हृदयं स्वयमायात वैदेह्या इव मूतिमत्॥६४॥
स प्राप हृदयन्यस्तमणिस्पर्शनिमीलितः।
अपयोधरसंसर्गी प्रियालिङ्गननिवृ तिम्॥६५॥
श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः।
महार्णवपरिक्षेपं लङ्कायाः परिखालघुम्॥६६॥
स प्रतस्थेऽरिनाशाय हरिसैन्यनुद्रतः।
न केवलं भुवः पृष्ठे व्योम्नि संबाधवत्मभिः॥६७॥
निविष्टमुदधेः कूले तं प्रपेदे विभीषणः।
स्नेहाद् राक्षसलक्ष्स्येव बुद्धिमादिश्य चोदितः॥६८॥
तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः।
काले खलु समारब्धाः फलं बध्नन्ति नीतयः॥६९॥
स सेतु बन्धयामास प्लवगैर्लवणाम्भसि।
रसातलादिवोन्मग्नं शेषं स्वप्नाय शाङ्गिणः॥७०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः