भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम्।
तेषां शूर्पणखेवैका दुष्प्रवृत्तिहाऽभवत्॥५१॥
निग्रहात् स्वसुराप्तानां वधाच्य धनदानुजः।
रामेण निहितं मेने पदं दशसु मूर्धसु॥५२॥
रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविछिनतः॥५३॥
तौ सीतान्वेषिणौ गृध्र लूनपक्षमपश्यताम्।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवतभिः॥५४॥
से रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम्।
आत्मनः सुमहत् कर्म व्रणैरावेद्य संस्थितः१॥५५॥
तयोस्तस्मिन्नवीभूत - पितृ - व्यापत्ति - शोकयोः।
पितरीवाग्निसंस्कारात् परा ववृतिरे क्रियाः॥५६॥
वधनिर्धतशापस्य कवन्धस्योपदेशतः।
मुमूच्र्छ सख्यं रामस्य समानव्यसने हरौ॥५७॥
स हत्वा वालिनं वीरस्तत्पदे चिरकाङक्षिते।
धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत्॥५८॥
इतस्ततश्च वैदेहीमवेष्टुं भतृ चोदिताः।
कपयश्चेरुरार्तस्य रामस्येव मनोरथाः ॥५६॥
प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनात्।
मारुतिः सागरं तीर्णः संसारमिव निर्ममः॥६०॥
----------------------------
१. संस्थितो मृतः।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः