भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
|
व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषमिव घर्मपल्वलम्।
राज्ञि तत्कुलमभूत् क्षयातुरे वामनाचरिव दीपभाजनम्॥५१॥
बाढमेषु दिवसेषु पार्थिवः कर्म साधयति पुत्रजन्मने।
इत्यदशितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्निीः प्रजाः॥५2॥
स त्वनेकवनितासखोऽपि सन् पावनीमनवलोक्य सन्ततिम्।
वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुमत्यगात्॥५३॥
तं गहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा।
रोगशान्तिमपदिश्य मन्त्रिणः संभृते शिखिनि गूढमादधुः॥५४॥
तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी।
साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम्॥५५॥
तस्यास्तथाविधनरेन्द्रविपत्तिशोका
दुष्णेविलोचनजलैः प्रथमाभितप्तः।
निर्वापितः कनककुम्भमुखोज्झितेन।
वंशाभिषेकविधिना शिशिरेण गर्भः॥५६॥
तं भावार्थं१ प्रसवसमयाकाङक्षिणीनां प्रजाना
मन्तगूढं क्षितिरिव नभोबीजमुष्टि दधाना।
मौलैः साधं स्थविरसचिवहेमसिंहासनस्था।
राज्ञी राज्यं विधिवदशिषद् भर्तुरव्याहताज्ञा२॥५७॥
॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये गर्भाभिषेको नामैकोनविंशः सर्गः॥
[समाप्तमिदं रघवंशाख्यं३ महाकाव्यम्]
-------------------------------
१. भूत्य० पा, भावो भूतिः म०
२. श्रीलङ्काप्रस्तरलेखोल्लेखादिकमाश्रित्य पञ्चविंशतिसर्गात्मकमिदं काव्यमिति केचित्। अत्रैवेदं पर्यपूरीति तु वयम्। अत्र रघुर्नायकस्तस्यैवैकस्याजन्मशुद्धयादिषोडश-गुणवत्त्वात्। अन्येषां चरितानि पुनस्तत्तद्गुणहाने: कस्कोऽपकर्ष इति व्यतिरेकमुखेन रधोरेव प्रशंसा। रामावतारस्तु पौरुषं दौर्बल्यमित्याद्यावेदितमेव।
३. क. कुमारसंभववत् कालिदासस्य रघुवंशं, विक्रमोर्वशीयं, शाकुन्तलं चेति त्रितयमपि कुमारसंभवमेव। तत्र कुमारसंभवे कुमारो दिव्यः, विक्रमोर्वशीये दिव्यादिव्यः, शाकुन्तले रघुवंशे च मानुषः। तत्रापि रघुवंशे तन्नायकोरघुः। परम्परयाप्यदिव्ययोनिरिति रघुवंशमेव सुमनुषं श्रेष्ठं च महाकाव्यम्।
ख. रघुवंशस्य प्रक्षिप्तानि पद्यानि परिशिष्टे दृश्यानि।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः