भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम्।
मारुते चलति चण्डिके बलाद् व्यज्यते विपरिवृत्तमंशुकम्॥७१॥
शक्यमङ्गुलिभिरुत्थितैरधः शाखिनां पतितपुष्पपेशलैः।
पत्रजर्जरशशिप्रभालवेरेभिरुत्कचयितुं तवालकान्॥७२॥
एष चारुमुखि योगतारया युज्यते तरल-बिम्बया शश।
साध्वसदुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः॥७३॥
पाक-भिन्न-शरकाण्ड-गौरयोरुल्लसत्प्रकृतिज–प्रसादयोः।
रोहतीव तव गण्डलेखयोश्चन्द्रबिम्बनिहिताक्षि ! चन्द्रिका॥७४॥
लोहितार्कमणिभाजनापितं कल्पवृक्षमधु बिभ्रती स्वयम्।
त्वामियं स्थितिमतीमुपागता गन्धमादनवनाधिदेवता॥७५॥
आर्दकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः।
अत्र लब्धवसतिगुणान्तरं किं विलासिनि मदः करिष्यति॥७६॥
मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपनम्।
इत्युदारमभिधाय शङ्करस्तामपाययत पानमम्बिकाम्॥७७॥
पार्वतीं तदुपयोगसम्भवां विक्रियामपि सतां मनोहराम्।
अप्रतर्यविधिय गनिमतामाम्रतेव सहकारतां ययौ॥७८॥
तत्क्षणं विपरिवतितल्लियोर्नेष्यतोः शयनमिद्धरागयोः।
सा बभूव वशवतनी द्वयोः शूलिनः सुवदना मदस्य च॥७९॥
घूर्णमाननयनं स्खलत्कथं स्वेदबिन्दु मदकारणस्मितम्।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ॥८०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः