भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
तौ सन्धिषु व्यजितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम्।
अपश्यतामप्सरसां मुहूर्त प्रयोगमाद्यं ललिताङ्गहारम्॥९१॥
देवास्तदन्ते हरमूढभार्य किरीटबद्धाञ्जलयो निपत्य।
शापावसाने प्रतिपन्नमूर्तेर्ययाचिरे पञ्चशरस्य सेवाम्॥९२॥
तस्यानुमेने भगवान् विमन्युव्र्यापारमात्मन्यपि सायकानाम्।
कालप्रयुक्ता खलु कार्यविभिर्विज्ञापना भर्तृषु सिद्धिमेति॥९३॥
अथ विबुधगणाँस्तानिन्दुमौलिर्विसृज्य,
क्षितिधरपतिकन्यामाददानः करेण।
कनक-कलशयुक्तं भक्तिशोभासनाथं,
क्षितिविरचितशय्यं कौतुकागारमागात् ॥९४॥
नवपरिणयलज्जाभूषणां तत्र गौरीं,
वदनमपहरन्तीं तत्कृताक्षेपमीशः॥
अपि शयनसखीभ्यो दत्तवाचं कथंचित्,।
प्रमथमुखविकारहसियामास गूढम् ॥९५॥
॥ इति श्रीमहाकविकालिदासकृतौ कुमारसंभवे महाकाव्ये उमापरिणयो नाम सप्तमः सर्गः॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः