भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
कर्तव्यं वो न पश्यामि स्याच्चेत कि नोपपद्यते।
मन्ये मत्पावनायैव प्रस्थानं भवतामिह ॥६१॥
तथापि तावत् कस्मिश्चिदाज्ञां मे दातु-मर्हथ।
विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥६२॥
एते वयममी दाराः कन्येयं कुलजीवितम्।
ब्रत येनात्र वः कार्यमनास्था वाह्यवस्तुषु ॥६३॥
इत्यूचिवाँस्तमेवार्थं गुहामुखविसपिणा।
द्विरित प्रतिशब्देन व्याजहार हिमालयः ॥६४॥
अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु।
ऋषयश्चोदयामासुः १स च प्राह महीधरम् ॥६५॥
उपपन्नमिदं सर्वमतः परमपि त्वयि।
मनसः शिखराणां च सदृशी ते समुन्नतिः ॥६६॥
स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथाहि ते।
चराचराणां भूतानां कुक्षिराधारतां गतः ॥६७॥
गामधास्यत् कथं नागो मृणालमृदुभिः फणैः।
आरसातलमूलात् त्वमवालम्बिष्यथा न चेत् ॥६६॥
अच्छिन्नामलसंतानाः समुद्रोयनिवारिताः।
पुनन्ति लोकान् पुण्यत्वात् कीर्तयः सरितश्च ते॥६९॥
यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः।
प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया॥७०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः