भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः।
अमृग्यमैश्वर्यसुखं नवं वयस्तपःफलं स्यात् किमतः परं वद॥४१॥
भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदशी।
विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदर त्वयि॥४२॥
अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्र कुतः पितुग हे।
पराभिमशें न तवास्ति कः करं प्रसारयेत् पन्नगरत्नसूचये ॥४३॥
किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम्।
वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ॥४४॥
दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशस्तव देवभूमयः।
अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत्॥४५॥
निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते।
न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम्॥४६॥
अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते।
उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥४७॥
मुनिव्रतस्त्वामतिमात्रकर्शितां दिवाकरप्लुष्ट विभूषणास्पदाम्।
शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते॥४८॥
अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः।
करोति लक्ष्यं रविमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः॥४९॥
कियच्चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसंचितं तपः।
तदद्धभागेन लभस्व काक्षितं वरं तमिच्छामि च साधु वेदितुम्॥५०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः