भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
तस्याः सखीभ्यां प्रणिपातपूर्व स्वहस्तलूनः शिशिरात्ययस्य।
व्यकोर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः॥६१॥
उमापि नीलालकमध्यशोभि विस्रसयन्ती नवकणकारम्।
चकार कर्णच्युतपल्लवेन मूर्ना प्रणामं वृषभध्वजाय ॥६२॥
अनन्यभाजं पतिमाप्तुही ति सा तथ्यमेवाभिहिता भवेन।
न हीश्वरव्याहृतयः कदाचित् पुष्णन्ति लोके विपरीतमर्थम्॥६३॥
कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद् वह्निमुखं विविक्षुः।
उमासमक्ष हरवद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥६४॥
अथोपनिये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण।
विशोषितां भानुमतो मयूखैर्मन्दाकिनीपुष्करवीजमालाम् ॥६५॥
प्रतिग्रहीतुं प्रणयिप्रियत्वात् त्रिलोचनस्तामुपचक्रमे च।
संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम्॥६६॥
हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।
उमामुखे बिम्वफलाधरोष्ठे व्यापारयामास विलोचनानि ॥६७॥
विवृण्वती शैलसुतापि भावमङ्गः स्फुरबालकदम्बकल्पैः।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन॥६८॥
अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद् बलवनिगृह्य।
हेतुं स्वचेतीविकृतेदिदृक्षुदिशामुपान्तेषु ससर्ज दष्टिम् ॥६९॥
स दक्षिणापाङ्गनिविष्टमुष्टि नतांसमाकुञ्चितसव्यपादम्।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम्॥७०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः