भारतीय जीवन और दर्शन >> कुमारसम्भव महाकाव्य-कालिदास विरचित कुमारसम्भव महाकाव्य-कालिदास विरचितनेमिचन्द्र शास्त्री
|
0 |
तृतीयः सर्गः
तस्मिन् मघोनस्त्रिदशान् विहाय सहस्रमणां युगपत् पपात।
प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु॥१॥
स वासवेनासनसंनिकृष्टमितो निषीदेति विसृष्टभूमिः।
भर्तुः प्रसादं प्रतिनन्द्य मूर्ना वक्तुं मिथः प्राक्रमतवमेनम्॥२॥
आज्ञापय ज्ञातविशेष पुंसां लोकेषु यत् ते करणीयमस्ति।
अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवद्धतमाज्ञया ते॥३॥
केनाभ्यसूया पदकाङक्षिणा ते नितान्तदीधैर्जनिता तपोभिः।
यावद् भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती॥४॥
असम्मतः कस्तव मुक्तिमार्ग पुनर्भवक्लेशभयात् प्रपन्नः।
वद्धश्चिरं तिष्ठतु सुन्दरीणामारेचित भ्रूचतुरैः कटाक्षः॥५॥
अध्यापितस्योशनसापि नीति प्रयुक्तरागप्रणिधिद्विषस्ते।
कस्यार्थधर्मों वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः॥६॥
कामेकपत्नीव्रतदु:खशील लोलं मनश्वारुतया प्रविष्टाम्।
नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम्॥७॥
कयासि कामिन् सरसापराधः पादानतः कोपनयावधूतः।
तस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम्॥८॥
प्रसीद विश्राम्यतु वीर वज्र शरैर्मदीयैः कतमः सुरारिः।
विभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताऽधराभ्यः॥९॥
तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा।
कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये॥१०॥
अथोरुदेशावतार्य, पादमाक्रान्तिसंभावितपादपीठम्।
संकल्पितेऽर्थे विवृतात्मशक्तिमाखण्डलः काममिदं बभाषे॥११॥
सर्वं सखे त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवाँश्च।
वज्र तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साधकं च ॥१२॥
अवमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये।
व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्धरणाय शेषः॥१३॥
आशंसता बाणगति वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम्।
निबोध यज्ञांशभजामिदानीमुच्चद्वषामीप्सितमेतदेव॥१४॥
अमी हि वीर्य प्रभवं भवस्य जयाय सेनान्यमुशन्ति देवाः।
स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभू ह्मणि योजितात्मा॥१५॥
तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितु यतस्व।
योषित्सु तवीर्यनिषेक भूमिः सैव क्षमेत्यात्मभुवोपदिष्टम्॥१६॥
गुरोनियोगाच्च नगेन्द्रकन्या स्थाणं तपस्यन्तमधित्यकायाम्।
अन्वास्त इत्यप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः॥१७॥
तद्गच्छ सिद्धय कुरु देवकार्यमर्थोऽयमर्थान्तरभाव्य एव।
अपेक्षते* प्रत्ययमुत्तमं त्वां वोजाङ्कुरः प्रागुदयादिवाम्भः॥१८॥
* प्रत्ययः कारणम्, द्र० रघु० १०३ बौद्ध-वाङ्मयं च।
अस्मिन् सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम्।
अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म॥१९॥
सुराः समभ्यर्थयितार एते कार्य त्रयाणामपि विष्टपानाम्।
चापेन ते कर्म न चातिहिंस्रमहो बतासि स्पृहणीयवीर्यः*॥२०॥
* इतः परं साहित्याकादमीपुस्तके पद्यम्-
ततः स्फुरत्केसरलग्नभृङ्ग सौरभ्यसंक्रान्तदिगन्तरालम्।
ददौ हरिः सादरमीक्षमाणो मन्दारमालां मकरध्वजाय॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः