लोगों की राय

भारतीय जीवन और दर्शन >> मेघदूतम्-कालिदास विरचित

मेघदूतम्-कालिदास विरचित

संसारचन्द्र

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2016
पृष्ठ :327
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11359
आईएसबीएन :8120823575

Like this Hindi book 0


श्यामास्वङ्ग चकितहरिणीप्रेक्षणे दृष्टिपातं
वक्त्रच्छायां शशिनि शिखिनां बर्हमारेषु केशान्।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्र.विलासान्।
हन्तैकस्मिन् कचिदपि न ते चण्डि! सादृश्यमस्ति।।४१॥

त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया
|भात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्1।
अस्रेस्तावन्मुहुरुपचितैर्दू ष्टिलुप्यते मे
अरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्त:।।४२।।
-----------------------------
१. कर्त्तुं लेखितुम्।

मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो
लैब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु।
पश्यन्तीनां न खलु वहुशो न स्थली देवतानां।
मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति।।४३।।

भित्त्वा सद्यः. किसलयपुटान देवदारुद्रुमाणां।
ये तत्क्षीरसूतिसुरभयो दक्षिणेन प्रवृत्ताः।
आलिङ्गयन्ते गुणवति ! मया ते तुषाराद्रिवाताः
पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति।।४४।।

संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा
सर्वावस्थास्वहरपि कथं मन्दमन्दानापं स्यात्।
इत्थं चेतश्चटुलनयने ! दुर्लभप्रार्थने मे
गाढोष्माभिः कृतमशरणं त्ववियोगव्यथाभिः।।४५।।

नन्वात्मानं वहु विगणयन्नात्मनैवावलम्बे
तत् कल्याणि ! त्वमपि नितरां मा गमः कातरत्वम्।
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण।।४६।।

शापान्तो मे भुजगशयनादुत्थिते शाङ्गपाणौ।
शेषान् मासान् गमय चतुरो1 लोचने मीलयित्वा।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षेपासु।।४७।।

भूयश्चहि त्वमपि शयने कण्ठलग्ना पुरा में।
निद्रां गत्वा किमपि रुदती सस्वनं विप्रबुद्धा।
सान्तसं कथितमसकृत् पृच्छतश्च त्वया मे
दृष्टःस्वप्ने कितव ! रमयन् कामपि त्वं मयेति।।४८।।

एतस्मान्मां कुशलिनमभिज्ञानदानाद् विदित्वा
मा कौलीनादसितनयने ! मय्यविश्वासिनी भूः।
स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगा
दिष्टे। वस्तुन्युपचितरसाः प्रेमराशीभवन्ति।।४९।।
-------------------------
१. चतुरे-पा०।

आश्वास्येवं प्रथम विरहोदग्रशोकां सखीं ते
शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि
प्रातः कुन्दप्रसवशिथिल जीवितं धारयेथाः।।५०।।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

अन्य पुस्तकें

लोगों की राय

No reviews for this book