भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
तौ प्रणामचलकाकपक्षको भ्रातराववभृथाप्लुतो मुनिः।
आशिषामनुपदं समस्पृशद् दर्भपाटिततलेन पाणिना॥३१॥
तं न्यमन्त्रयत संभृतक्रतुर्मेथिलः स मिथिलां व्रजन वशी।
राघवावपि निनाय विभ्रतौ तद्धनुःश्रवणजे कुतूहलम्॥३२॥
तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुष्वगृह्यत।
येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ॥३३॥
प्रत्यपद्यत चिराय यत् पुनश्चारु गौतमवधूः शिलामयी।
स्वं वपुः स किल किल्विषच्छिदां रामपादरजसामनुग्रहः॥३४॥
राघवान्वितमुपस्थितं मुनि तं निशम्य जनको जनेश्वरः।
अर्थकामसहितं सपर्यंया देहबद्धमिव धर्ममभ्यगात्॥३५॥
तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू।
मन्यते स्म पिबतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः॥३६॥
यूपवत्यवसिते क्रियाविधौ कालवित् कुशिकवंशवर्द्धनः।
राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांवभूव सः॥३७॥
तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः।
स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया ॥३८॥
अब्रवीच्च भगवन् मतङ्गजैर्यद् बृहदभिरपि कर्म दुष्करम्।
तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति केले भस्य चेष्टितम्॥३९॥
हेपिता हि वहवो नरेश्वरास्तेन तात धनुषा धनुर्भ तः।
ज्यानिघातकठिनत्वचो भुजान् स्वान् विधूय धिगिति प्रतस्थिरे॥४०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः