भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
तौ सरांसि रसवभिरम्बुभिः कूजितेः श्रुतिसुखैः पतत्त्रिणः।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे॥११॥
नाम्भसां कमलशोभिनां तथा शाखिनां न च परिश्रमच्छिदाम्।
दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः॥१२॥
स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरातकार्मुकः।
विग्रहेण मदनस्य चारुणा सोऽभवत् प्रतिनिधिर्न कर्मणा॥१३॥
तौ सुकेतुसुतया खिलीकृते कौशिकाद् विदितशापया पथि।
निन्यतुः स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम्॥१४॥
ज्यानिनाद्मथ गृह्ती तयोः प्रादुरास बहुलक्षपाछविः।
ताडका चल-कपालकुण्डला कालिकेव निबिडा बलाकिनी॥१५॥
तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा। स्वनोग्रया।
अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया॥१६॥
उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम्।
तां विलोक्य वनितावधे घृणां पत्त्रिणा सह मुमोच राघवः॥१७॥
यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः।
अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत्॥१८॥
बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलाम्।
विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत्॥१९॥
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी।
गन्धवधिरचन्दनोक्षिता जीवितेशवसति जगाम सा॥२०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः