भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
अनवाप्तमवाप्तव्यं न ते किञ्चन विद्यते।
लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः॥३१॥
महिमानं यदुत्कीयं तव संहि यते वचः।
श्रमेण तदशक्त्या वा न गुणानामियत्तया॥३२॥
इति प्रसादयामासुस्ते सुरास्तमधोक्षजम्।
भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः॥३३॥
तस्मै कुशलसंप्रश्न-व्यजितप्रीतये सुराः।
भयमप्रलयोवेला–दाचख्युर्नेऋ तोदधेः॥३४॥
अथ वेलासमासन्नशैलरन्ध्रानुनादिना।
स्वरेणोवाच भगवान् परिभूतार्णवध्वनिः॥३५॥
पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता।
बभूव कृतसंस्कारा चरितार्थव भारती॥३६॥
बभौ सदशनज्योत्स्ना सा विभोर्वदनोदगता।
निर्यातशेषा चरणाद् गङ्गेवोर्ध्वप्रवर्तिनी॥३७॥
जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ।
अङ्गिनां तमसेवोभौ गुणौ १प्रथममध्यमौ॥३८॥
विदितं तप्यमानं च तेन मे भुवनत्रयम्।
अकामोपनतेनेव साधो दयमेनसा॥३१॥
कार्येषु चैककार्यत्वादभ्यर्थोऽस्मि न वज्रिणा।
स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते॥४०॥
----------------
१. सत्त्वरजसी
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः