भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
0 |
स त्वमेकान्तरां तस्याः मदीयां वत्समातरम्।1
आराधय सपत्नीक: प्रीता कामदुघा हि सा॥८१॥
इति वादिन एवास्य होतुराहुतिसाधनम्।
अनिन्द्या नन्दिनी नाम धेनुराववृते वनात्॥८२॥
ललाटोदयमाभग्नं पल्लवस्निग्धपाटला।
बिभ्रती श्वेतरोमाङ्क संध्येव शशिनं नवम्॥८३॥
भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि।
प्रस्नवेनाभिवर्षन्ती वत्सालोकप्रवतिना॥८4॥
रजःकणैः खुरोधूतैः स्पृशभिर्गात्रमन्तिकात्।
तीर्थाभिषेकजांशुद्धिमादधाना महीक्षितः॥८५॥
तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधिः।
याज्यमाशंसितावन्ध्यप्रार्थनं पुनरब्रवीत्॥८६॥
अदूरवर्तनीं सिद्ध राजन् विगणयात्मनः।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत्॥८७॥
वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम्।
2विद्यामभ्यसनेनेव प्रसादयितुमर्हसि॥८८॥
प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः।
निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः॥८९॥
वधूभक्तिमती चैनामचतामातपोवनात्।
प्रयता प्रातरन्वेतु सायं3 प्रत्युव्रजेदपि॥९०॥
--------------------------------------
१. उदयपुरादिहस्तलेखेष्वयमेव पाठः। ‘सुतां तदीयां सुरभेः कृत्वाप्रतिनिधि शुचिः'- म.
२. गां विद्यां च यौगपद्येन प्रसादयेति गुरोरादेशः। एवं च ‘नन्दिनी' नाम धेनुविशेषो विद्याविशेषश्च। तदत्र प्रासंगिकोभयोपमा।
३. प्रत्युत्प्रयातु चेति युज्येत वक्तुम्।
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः